अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 9
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ स्तोमे॑भिर्विश्वचर्षणे। सचै॒षु सव॑ने॒ष्वा ॥
स्वर सहित पद पाठमत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभि॑: । स्तोमे॑भि: । वि॒श्व॒ऽच॒र्ष॒णे॒ । सचा॑ । ए॒षु । सव॑नेषु । आ ॥७१.९॥
स्वर रहित मन्त्र
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे। सचैषु सवनेष्वा ॥
स्वर रहित पद पाठमत्स्व । सुऽशिप्र । मन्दिऽभि: । स्तोमेभि: । विश्वऽचर्षणे । सचा । एषु । सवनेषु । आ ॥७१.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(मत्स्व) हर्षय (सुशिप्र) अ० २०।४।१। सृप्लृ गतौ-रक् सृशब्दस्य शिभावः। सृपः सर्पणादिदमपीतरत् सृपमेतस्मादेव सर्पिर्वा तैलं वा.......सुशिप्रमेतेन व्याख्यातम्-निरु० ६।१७। हे बहुज्ञानयुक्त [मन्दिभिः] म० ८। हर्षयितृभिः (स्तोमेभिः) स्तुत्यव्यवहारैः (विश्वचर्षणे) चर्षणयो मनुष्यनाम-निघ० २।३। सर्वे चरणशीला मनुष्या यस्य तत्सम्बुद्धौ। हे सर्वमनुष्यस्वामिन् ! हे सर्वदर्शक-निघ० ३।११। (सचा) समवायेन (एषु) प्रत्यक्षेषु (सवनेषु) ऐश्वर्ययुक्तेषु पदार्थेषु (आ) समन्तात् ॥
इस भाष्य को एडिट करें