अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 13
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत्। वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
स्वर सहित पद पाठसम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रव॑: । बृ॒हत् । वि॒श्वऽआयु: । धे॒हि॒ । अक्षि॑तम् ॥७१.१३॥
स्वर रहित मन्त्र
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्। विश्वायुर्धेह्यक्षितम् ॥
स्वर रहित पद पाठसम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रव: । बृहत् । विश्वऽआयु: । धेहि । अक्षितम् ॥७१.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(सम्) सम्यक् (गोमत्) बहुभूमियुक्तम् (इन्द्र) परमेश्वर (वाजवत्) बह्वन्नवत् (अस्मे) अस्मभ्यम् (पृथु) विस्तृतम् (श्रवः) श्रवणीयं यशो धनं वा (बृहत्) वर्धमानम् (विश्वायुः) सर्वजीवनपर्याप्तम् (धेहि) देहि (अक्षितम्) अक्षीणम्। हानिरहितम् ॥
इस भाष्य को एडिट करें