Loading...
अथर्ववेद > काण्ड 20 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 4
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-७४

    स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

    स्वर सहित पद पाठ

    स॒सन्तु॑ । त्या: । अरा॑तय: । बोध॑न्तु । शू॒र॒ । रा॒तय॑: । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.४॥


    स्वर रहित मन्त्र

    ससन्तु त्या अरातयो बोधन्तु शूर रातयः। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

    स्वर रहित पद पाठ

    ससन्तु । त्या: । अरातय: । बोधन्तु । शूर । रातय: । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 4

    टिप्पणीः - ४−(ससन्तु) शेरताम् (त्याः) ताः (अरातयः) अदानशीलाः शत्रुप्रजाः (बोधन्तु) जाग्रतु (शूर) हे वीर (रातयः) दातारः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top