अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 7
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्वम्। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठसर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ॥ आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.७॥
स्वर रहित मन्त्र
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठसर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदाश्वम् ॥ आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(सर्वम्) प्रत्येकम् (परिक्रोशम्) क्रुश आह्वाने शब्दे च-पचाद्यच्। परिक्रोशकम्। निन्दकम् (जहि) हन हिंसागत्योः। गच्छ। प्राप्नुहि (जम्भय) मारय (कृकदाश्वम) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। कृञ् हिंसायाम्-कक्। कृवापाजि०। उ० १।१। दाशृ दाने-उण्। अमि यणादेशः। पीडादातारम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें