Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 83/ मन्त्र 2
ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या। अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥
स्वर सहित पद पाठये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भु: । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया ॥ अघ॑ । स्म॒ । न॒: । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒ण॒: । त॒नू॒ऽपा: । अन्त॑म: । भ॒व॒ ॥८३.२॥
स्वर रहित मन्त्र
ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया। अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव ॥
स्वर रहित पद पाठये । गव्यता । मनसा । शत्रुम् । आऽदभु: । अभिऽप्रघ्नन्ति । धृष्णुऽया ॥ अघ । स्म । न: । मघऽवन् । इन्द्र । गिर्वण: । तनूऽपा: । अन्तम: । भव ॥८३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 83; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ये) जनाः (गव्यता) गो-क्यच्, शतृ। गां भूमिमिच्छता (मनसा) चित्तेन (शत्रुम्) (आदभुः) लडर्थे लिट्। आदेभुः। समन्ताद् हिंसन्ति (अभिप्रघ्नन्ति) हन हिंसागत्योः। सर्वतः प्रगच्छन्ति। प्राप्नुवन्ति (धृष्णुया) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्याच्। धृष्णवः। प्रगल्भाः (अध) अवश्यम् (स्म) एव (नः) अस्माकम् (मघवन्) हे बहुधनयुक्त (इन्द्र) परमैश्वर्यवन् राजन् (गिर्वणः) हे स्तुतिभिः सेवनीय (तनूपाः) शरीराणां रक्षकः (अन्तमः) अन्तिकतमः। अतिसमीपस्थः (भव) ॥
इस भाष्य को एडिट करें