Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 2
अ॑वक्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म्। वि॒द्वेष॑णं सं॒वन॑नोऽभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥
स्वर सहित पद पाठअ॒व॒ऽक्र॒क्षिण॑म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽसह॑म् ॥ वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽका॒रम् । मंहि॑ष्ठम् । उ॒भ॒या॒विन॑म् ॥८५.२॥
स्वर रहित मन्त्र
अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्। विद्वेषणं संवननोऽभयंकरं मंहिष्ठमुभयाविनम् ॥
स्वर रहित पद पाठअवऽक्रक्षिणम् । वृषभम् । यथा । अजुरम् । गाम् । न । चर्षणिऽसहम् ॥ विऽद्वेषणम् । सम्ऽवनना । उभयम्ऽकारम् । मंहिष्ठम् । उभयाविनम् ॥८५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - भगवान् यास्क मुनि ने कहा है−गौ सूर्य है, वह रसों को चलाता है, अन्तरिक्ष में चलता है-निरुक्त २।१४। यह सूक्त ऋग्वेद में है-८।१।१-४। मन्त्र १, २ सामवेद-उ० ६।१।, मन्त्र १-पू० ३।।१० ॥ २−(अवक्रक्षिणम्) अव रक्षणहिंसादिषु-अच्। वृतॄवदिवचि०। उ० ३।६२। कृष विलेखने-सप्रप्रत्ययः। अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्। पा० ६।१।९। अमागमः। अत इनिठनौ। पा० ।२।११। अव+क्रक्ष-इनि। अवस्य दुःखस्य विलेखकं वहिष्कर्तारम् (वृषभम्) वृषभो वर्षिताऽपाम्-निरु० ४।८। जलवर्षकं मेघम् (यथा) (अजुरम्) मन्दिवाशिमथि०। उ० १।३८। अज गतिक्षेपणयोः-उरच्। सर्वप्रेरकम् (गाम्) गमेः-डो प्रत्ययः। गौरादित्यो भवति गमयति रसान्, गच्छत्यन्तरिक्षे-निरु० २।१४। आदित्यम् (न) यथा (चर्षणीसहम्) मनुष्याणां वशीकर्तारम् (विद्वेषणम्) वैरिभावम्। निग्रहम्। दण्डदानम् (संवनना) संवननम्। सम्यक् सेवनम्। अनुग्रहम्। पोषणम् (उभयंकरम्) उभयोर्विद्वेषणसेवननयोः कर्तारम् (मंहिष्ठम्) दातृतमम् (उभयाविनम्) अ० ।२।९। उभय+अव रक्षणे-इनि। उभयोः स्थावरजङ्गमयो रक्षकम् ॥
इस भाष्य को एडिट करें