Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 3
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑। अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
स्वर सहित पद पाठयत् । चि॒त् । हि । त्वा॒ । जना॑: । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥ अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥८५.३॥
स्वर रहित मन्त्र
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये। अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
स्वर रहित पद पाठयत् । चित् । हि । त्वा । जना: । इमे । नाना । हवन्ते । ऊतये ॥ अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥८५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यतः (चित्) निश्चयेन (हि) (त्वा) (जनाः) मनुष्याः (इमे) वर्तमानाः (नाना) विविधम् (हवन्ते) आह्वयन्ति (ऊतये) रक्षणाय (अस्माकम्) (ब्रह्म) धनम् (इदम्) इदानीम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (भूतु) भवतु (ते) तव (अहा) दिनानि (विश्वाः) सर्वाणि (च) अवधारणे (वर्धनम्) वृद्धिः ॥
इस भाष्य को एडिट करें