Loading...
अथर्ववेद > काण्ड 20 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 6
    सूक्त - वामदेवः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८८

    ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑। बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    स्वर सहित पद पाठ

    ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञै: । वि॒धे॒म॒ । नम॑सा । ह॒वि:ऽभि॑: ॥ बृह॑स्पते । सु॒ऽप्र॒जा: । वी॒रऽव॑न्त: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥८८.६॥


    स्वर रहित मन्त्र

    एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः। बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

    स्वर रहित पद पाठ

    एव । पित्रे । विश्वऽदेवाय । वृष्णे । यज्ञै: । विधेम । नमसा । हवि:ऽभि: ॥ बृहस्पते । सुऽप्रजा: । वीरऽवन्त: । वयम् । स्याम । पतय: । रयीणाम् ॥८८.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 6

    टिप्पणीः - ६−(एव) निश्चयेन (पित्रे) पितृवत्पालकाय (विश्वदेवाय) सर्वस्तुत्याय (वृष्णे) बलवते (यज्ञैः) संगतिकरणैः (विधेम) परिचरेम (नमसा) अन्नेन सह (हविर्भिः) दातव्यपदार्थैः (बृहस्पते) बृहतां विद्यानां रक्षक (सुप्रजाः) श्रेष्ठप्रजावन्तः (वीरवन्तः) वीरपुरुषयुक्ताः (वयम्) (स्याम) (पतयः) स्वामिनः (रयीणाम्) अनेकधनानाम् ॥

    इस भाष्य को एडिट करें
    Top