अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 5
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण। बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥
स्वर सहित पद पाठस: । सु॒ऽस्तु॒भा॑ । स: । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । र॒वे॑ण ॥ बृह॒स्पति॑: । उ॒स्रिया॑: । ह॒व्य॒ऽसूद॑: । कनि॑क्रदत् । वाव॑शती: । उत् । आ॒ज॒त् ॥८८.५॥
स्वर रहित मन्त्र
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण। बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥
स्वर रहित पद पाठस: । सुऽस्तुभा । स: । ऋक्वता । गणेन । वलम् । रुरोज । फलिऽगम् । रवेण ॥ बृहस्पति: । उस्रिया: । हव्यऽसूद: । कनिक्रदत् । वावशती: । उत् । आजत् ॥८८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(सः सः) स एव (सुष्टुभा) स्तोभतिरर्चतिकर्मा-निघ० ३।१४-क्विप्। शोभनस्तुतिमतां (ऋक्वता) ऋच स्तुतौ-क्विप्, मतुप्, मस्य वः। अयस्मयादीनि च्छन्दसि। पा० १।४।२०। पदत्वात् कुत्वं भत्वाज् जश्त्वाभावः। ऋग् वाङ्नाम-निघ० १।११। पूजनीयवाणीयुक्तेन (गणेन) समुदायेन (वलम्) हिंसकं शत्रुम् (रुरोज) बभञ्ज (फलिगम्) सर्वधातुभ्य इन्। उ० ४।११८। ञिफला विशरणे-इन्+गमेर्डः, अन्तर्गतण्यर्थः। फलिगो मेघनाम-निघ० १।१०। भेदस्य प्रापकम्। मेघमिवान्धकारम्य प्रसारकम् (रवेण) शब्देन। धर्मघोषणया (बृहस्पतिः) बृहतीनां विद्यानां रक्षकः (उस्रियाः) अ० २०।१६।६। निवासशीलाः प्रजाः (हव्यसूदः) षूद क्षरणे, अङ्गीकारे, प्रतिज्ञायां मारणे च-अच्। हव्यानां दातव्यग्राह्यपदार्थानां प्रतिज्ञाकरः (कनिक्रदत्) अ० २।३०।। भृशमाह्वयन्तम् (वावशतीः) वश कान्तौ यङलुकि-शतृ, ङीप्। भृशं कामयमानाः (उत्) उपरिभागे (आजत्) अ० २०।१६।। अगमयत् ॥
इस भाष्य को एडिट करें