Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 90/ मन्त्र 2
जना॑य चि॒द्य ईव॑ते उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑। घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒ छत्रूं॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
स्वर सहित पद पाठजना॑य । चि॒त् । व: । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पति॑: । दे॒वऽहू॑तौ । च॒कार॑ ॥ घ्नन् । वृ॒त्राणि॑ । वि । पुर॑: । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्सु । सह॑न् ॥९०.२॥
स्वर रहित मन्त्र
जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार। घ्नन्वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान्पृत्सु साहन् ॥
स्वर रहित पद पाठजनाय । चित् । व: । ईवते । ऊं इति । लोकम् । बृहस्पति: । देवऽहूतौ । चकार ॥ घ्नन् । वृत्राणि । वि । पुर: । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्सु । सहन् ॥९०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 90; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(जनाय) (चित्) अवश्यम् (यः) (ईवते) गतिमते (उ) एव (लोकम्) दर्शनीयं स्थानम् (बृहस्पतिः) बृहतीनां विद्यानां पालकः (देवहूतौ) देवानामाह्वाने (चकार) कृतवान् (घ्नन्) गच्छन्। प्राप्नुवन् (वृत्राणि) धनानि (वि) विशेषेण (पुरः) शत्रूणां नगराणि। दुर्गाणि (दर्दरीति) भृशं विदृणाति (जयन्) (शत्रून्) (अमित्रान्) अम पीडने-इत्रन्। पीडकान् (पृत्सु) पृतनासु। संग्रामेषु (साहन्) अभिभवन् ॥
इस भाष्य को एडिट करें