Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 98/ मन्त्र 1
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ॥
स्वर सहित पद पाठत्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रव॑: ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नर॑: । त्वाम् । काष्ठासु । अर्व॑त: ॥९८.१॥
स्वर रहित मन्त्र
त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥
स्वर रहित पद पाठत्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारव: ॥ त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नर: । त्वाम् । काष्ठासु । अर्वत: ॥९८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 98; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र १, २ ऋग्वेद में है-६।४६।१, २; यजुर्वेद-२७।३७, ३८; सामवेद उ० २।१।१२ और मन्त्र १ साम०-पू० ३।।२ ॥ १−(त्वाम्) (इत्) एव (हि) (हवामहे) आह्वयामः (साता) सातौ। विभागे। लाभे (वाजस्य) विज्ञानस्य (कारवः) कर्तारः (त्वाम्) (वृत्रेषु) धनेषु (इन्द्र) परमैश्वर्यवन् राजन् (सत्पतिम्) सत्पुरुषाणां पालकम् (नरः) नेतारः (त्वाम्) (काष्ठासु) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। काशृ दीप्तौ-क्थन्। काष्ठोत्कर्षे स्थितौ दिशि-अमरः २३।४१। उत्कर्षेषु (अर्वतः) अश्वानिव ॥
इस भाष्य को एडिट करें