Loading...
अथर्ववेद > काण्ड 20 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 97/ मन्त्र 3
    सूक्त - कलिः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-९७

    कदू॒ न्वस्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म्। केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥

    स्वर सहित पद पाठ

    कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ॥ केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुष॑: । परि॑ । वृ॒त्र॒ऽहा ॥९७.३॥


    स्वर रहित मन्त्र

    कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम्। केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥

    स्वर रहित पद पाठ

    कत् । ऊं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ॥ केनो इति । नु । कम् । श्रोमतेन । न । शुश्रुवे । जनुष: । परि । वृत्रऽहा ॥९७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 97; मन्त्र » 3

    टिप्पणीः - ३−(कत्) किम् (उ) एव (नु) इदानीम् (अस्य) (अकृतम्) अनाचारितम् (इन्द्रस्य) परमैश्वर्यवतो वीरस्य (अस्ति) (पौंस्यम्) पौरुषम् (केनो) केनापि (नु) इदानीम् (कम्) सुखेन (श्रोमतेन) गमेर्डोः। उ० २।६७। श्रु श्रवणे-डोप्रत्ययः+मन ज्ञाने पूजायां च-क्त। श्रोः श्रवणीयो वेदो मतः संमानितो येन तेन (न) निषेधे (शुश्रुवे) श्रु श्रवणे-कर्मणि लिट्। श्रूयते स्म (जनुषः) जन्मनः सकाशात् (परि) (वृत्रहा) शत्रुनाशकः ॥

    इस भाष्य को एडिट करें
    Top