Loading...
अथर्ववेद > काण्ड 20 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 97/ मन्त्र 1
    सूक्त - कलिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९७

    व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म्। तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥

    स्वर सहित पद पाठ

    व॒यम् । ए॒न॒म् । इ॒दा । ह्य: । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् ॥ तस्मै॑ । ऊं॒ इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥९७.१॥


    स्वर रहित मन्त्र

    वयमेनमिदा ह्योऽपीपेमेह वज्रिणम्। तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥

    स्वर रहित पद पाठ

    वयम् । एनम् । इदा । ह्य: । अपीपेम । इह । वज्रिणम् ॥ तस्मै । ऊं इति । अद्य । समना । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥९७.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 97; मन्त्र » 1

    टिप्पणीः - यह तृच ऋग्वेद में है-८।६६ [सायणभाष्य ]। ७-९ मन्त्र १, २ सामवेद-उ० ८।२।१३, मन्त्र १ साम० पू० ३।८।१० ॥ १−(वयम्) (एनम्) (इदा) इदि परमैश्वर्ये-क्विप्, नलोपः। परमैश्वर्येण सह वर्तमानम् (ह्यः) गतदिने (अपीपेम) पीङ् पाने जुहोत्यादौ लङ् परस्मैपदं छान्दसम्। पानं कारितवन्तः (इह) अत्र (वज्रिणम्) (तस्मै) (उ) निश्चयेन (अद्य) अस्मिन् दिने (समना) अन प्राणने-अच्, विभक्तेर्डा। समनाय। पूर्णबलवते (सुतम्) संस्कृतं तत्त्वरसम् (भर) धर (आ) समन्तात् (नूनम्) अवश्यम् (भूषत) अलंकुरुत (श्रुते) श्रवणीये शास्त्रे ॥

    इस भाष्य को एडिट करें
    Top