Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 97/ मन्त्र 2
वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति। सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥
स्वर सहित पद पाठवृक॑: । चि॒त् । अ॒स्य॒ । वा॒र॒ण: । उ॒रा॒ऽमथि॑: । आ । व॒युने॑षु । भू॒ष॒ति॒ ॥ स: । इ॒मम् । न॒: । स्तोम॑म् । जु॒जु॒षा॒ण: । आ । ग॒हि॒ । इन्द्र॑ । प्र । चि॒त्रया॑ । धि॒या ॥९७.२॥
स्वर रहित मन्त्र
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति। सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥
स्वर रहित पद पाठवृक: । चित् । अस्य । वारण: । उराऽमथि: । आ । वयुनेषु । भूषति ॥ स: । इमम् । न: । स्तोमम् । जुजुषाण: । आ । गहि । इन्द्र । प्र । चित्रया । धिया ॥९७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 97; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस मन्त्र के अर्थ के लिये देखो-निरु० ।२१ ॥ २−(वृकः) वृक आदाने-क। श्वापि वृक उच्यते विकर्तनात्-निरु० ।२१। व्याघ्रभेदः (चित्) अपि (वारणः) वारयिता (उरामथिः) उरामथिः। उरणमथिः। उरण ऊर्णावान् भवत्यूर्णा पुनर्वृणतेरूर्णोतेर्वा-निरु० ।२१। मेषाणां मथिता नाशयिता (आ) समन्तात्। आनुकूल्येन (वयुनेषु) कर्मसु (भूषति) भवति (सः) स त्वम् (इमम्) (नः) अस्माकम् (स्तोमम्) स्तोत्रम् (जुजुषाणः) सेवमानः। स्वीकुर्वाणः (आ गहि) आगच्छ (इन्द्र) परमैश्वर्यवन् वीर (प्र) प्रकर्षेण (चित्रया) अद्भुतया (धिया) बुद्ध्या ॥
इस भाष्य को एडिट करें