Loading...
अथर्ववेद > काण्ड 20 > सूक्त 99

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 99/ मन्त्र 1
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९९

    अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑। स॑मीची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥

    स्वर सहित पद पाठ

    अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भि: । आ॒यव॑: ॥ स॒म्ऽई॒ची॒नास॑: । ऋ॒भव॑: । सम् । अ॒स्व॒र॒न् । रु॒द्रा: । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥९९.१॥


    स्वर रहित मन्त्र

    अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः। समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥

    स्वर रहित पद पाठ

    अभि । त्वा । पूर्वऽपीतये । इन्द्र । स्तोमेभि: । आयव: ॥ सम्ऽईचीनास: । ऋभव: । सम् । अस्वरन् । रुद्रा: । गृणन्त । पूर्व्यम् ॥९९.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 99; मन्त्र » 1

    टिप्पणीः - दोनों मन्त्र ऋग्वेद में हैं-८।३।७, ८; सामवेद-उ० ७।३।१; मन्त्र १ साम० पू० ३।७।४ ॥ १−(अभि) अभितः (त्वा) त्वाम् (पूर्वपीतये) प्रथमपानाय। मुख्यभोगाय (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (स्तोमेभिः) स्तोत्रैः (आयवः) मनुष्याः-निघ० २।३। (समीचीनासः) संगताः। साधवः (ऋभवः) मेधाविनः (सम्) संगत्य (अस्वरन्) स्वृ शब्दोपतापयोः। अस्तुवन् (रुद्राः) स्तोतारः-निघ० ३।१६। (गृणन्त) स्तुतवन्तः (पूर्व्यम्) प्राचीनम् ॥

    इस भाष्य को एडिट करें
    Top