Loading...
अथर्ववेद > काण्ड 20 > सूक्त 99

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 99/ मन्त्र 2
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९९

    अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । इन्द्र॑: । व॒वृ॒धे॒ । वृष्ण्य॑म् । शव॑: । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ॥ अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यव॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥९९.२॥


    स्वर रहित मन्त्र

    अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥

    स्वर रहित पद पाठ

    अस्य । इत् । इन्द्र: । ववृधे । वृष्ण्यम् । शव: । मदे । सुतस्य । विष्णवि ॥ अद्य । तम् । अस्य । महिमानम् । आयव: । अनु । स्तुवन्ति । पूर्वऽथा ॥९९.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 99; मन्त्र » 2

    टिप्पणीः - यह मन्त्र यजुर्वेद में भी है-३३।९७ ॥ २−(अस्य) जीवस्य (इत्) एव (इन्द्रः) परमैश्वर्यवान् परमात्मा (वावृधे) वर्धितवान् (वृष्ण्यम्) वृषत्वम्। पराक्रमम् (शवः)। बलम् (मदे) आनन्दे (सुतस्य) उत्पन्नस्य (विष्णवि) विष्णौ। व्यापके (अद्य) (तम्) (अस्य) परमेश्वरस्य (महिमानम्) महत्त्वम् (आयवः) मनुष्याः (अनु) निरन्तरम् (स्तुवन्ति) प्रशंसन्ति (पूर्वथा) यथापूर्वम् ॥

    इस भाष्य को एडिट करें
    Top