अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 3
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ॥
स्वर सहित पद पाठइन्द्र॑ । चि॒त्तानि॑ । मो॒हय॑न् । अ॒र्वाङ् । आऽकू॑त्या । च॒र॒ ।अ॒ग्ने: । वात॑स्य । ध्राज्या॑ । तान् । विषू॑च: । वि । ना॒श॒य॒ ॥२.३॥
स्वर रहित मन्त्र
इन्द्र चित्तानि मोहयन्नर्वाङाकूत्या चर। अग्नेर्वातस्य ध्राज्या तान्विषूचो वि नाशय ॥
स्वर रहित पद पाठइन्द्र । चित्तानि । मोहयन् । अर्वाङ् । आऽकूत्या । चर ।अग्ने: । वातस्य । ध्राज्या । तान् । विषूच: । वि । नाशय ॥२.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(इन्द्र)। हे परमैश्वर्यवन् राजन्। (चित्तानि)। मनांसि। (मोहयन्)। व्याकुलीकुर्वन्। (अर्वाङ्)। अवरे काले देशे वा अञ्चति। अवर+अञ्च-क्विन्, अर्वादेशः। अस्मदभिमुखः। (आकूत्या)। आङ्+कूञ् शब्दे-क्तिन्। संकल्पेन। अन्यद् व्याख्यातं सू० १ म० ५ ॥
इस भाष्य को एडिट करें