Loading...
अथर्ववेद > काण्ड 3 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 5
    सूक्त - अथर्वा देवता - द्यौः छन्दः - त्रिष्टुप् सूक्तम् - शत्रु सेनासंमोहन सूक्त

    अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न् ॥

    स्वर सहित पद पाठ

    अ॒मीषा॑म् । चि॒त्तानि॑ । प्र॒ति॒ऽमो॒हय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ । अभि । प्र । इ॒हि॒ । नि: । द॒ह॒ । हृ॒त्ऽसु । शोकै॑: । ग्राह्या॑ । अ॒मित्रा॑न् । तम॑सा । वि॒ध्य॒ । शत्रू॑न् ॥२.५॥


    स्वर रहित मन्त्र

    अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि। अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥

    स्वर रहित पद पाठ

    अमीषाम् । चित्तानि । प्रतिऽमोहयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । नि: । दह । हृत्ऽसु । शोकै: । ग्राह्या । अमित्रान् । तमसा । विध्य । शत्रून् ॥२.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५−(अमीषाम्)। अदस्-इत्यस्य रूपम्। परिदृश्यमानानां शत्रूणाम्। (चित्तानि)। मनांसि। (प्रतिमोहयन्ती)। मुह वैचित्ये-हेतौ शतृ। सर्वथा व्याकुलीकुर्वती। (गृहाण)। वशीकुरु। (अङ्गानि)। शरीरावयवान्। सेन विभागान्। (अष्वे)। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति अपपूर्वात् वा गतिहिंसनयोः, अथवा, वेञ् तन्तुसन्ताने, अन्तर्णीतण्यर्थात् उ प्रत्ययः। अथवा। शेवायह्वजिह्वाग्रीवाऽप्वामीवाः। उ० १।१५४। इति आप्लृ व्याप्तौ-वन्। टाप्। छान्दसं रूपम्। अप्वा यदेनया विद्धोऽपवीयते। व्याधिर्वा भयं वा। निरु० ६।१२। अपवाति हिनस्ति, यद्वा, अपवयति अपगमयति वा आप्नोति शत्रून् सा अप्वा तत्संबुद्धौ। (परा)। पराक्रमेण। (इहि)। गच्छ। (अभि)। अभितः सर्वतः। (प्र)। प्रकर्षेण (निः)। नितराम्। (दह)। दहनं कुरु। (हृत्सु)। हृदयेषु। (शोकैः)। शुच शोके-घञ्। खेदैः। (ग्राह्या)। अ० २।९।१। ग्रह आदाने इञ्। ग्रहण-शक्त्या। बन्धनादिना। (अमित्रान्)। अ० १।१९।२। पीडकान् (तमसा)। अन्धकारेण। आग्नेयास्त्रोत्थितेन धूमेनेत्यर्थः। (विध्य)। व्यध ताडने, छेदने। ताडय। छिन्धि। (शत्रून्)। अ० २।५।३ शातयितॄन्। हिंसकान् ॥

    इस भाष्य को एडिट करें
    Top