अथर्ववेद - काण्ड 3/ सूक्त 31/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - त्वष्टा
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - यक्ष्मनाशन सूक्त
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं यु॑न॒क्तीती॒दं विश्वं॒ भुव॑नं॒ वि या॑ति। व्यहं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
स्वर सहित पद पाठत्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । यु॒न॒क्ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । या॒ति॒ । वि । अ॒हम् । सर्वे॑ण । पा॒प्मना॑ । वि । यक्ष्मे॑ण । सम् । आयु॑षा ॥३१.५॥
स्वर रहित मन्त्र
त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति। व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥
स्वर रहित पद पाठत्वष्टा । दुहित्रे । वहतुम् । युनक्ति । इति । इदम् । विश्वम् । भुवनम् । वि । याति । वि । अहम् । सर्वेण । पाप्मना । वि । यक्ष्मेण । सम् । आयुषा ॥३१.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 31; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(त्वष्टा) अ० २।५।६। व्यवहाराणां तनूकर्ता, पिता। (दुहित्रे) अ० २।१४।२। दोग्धि प्रपूरयति कार्याणीति दुहिता तस्यै। पुत्र्यै। (वहतुम्) एधिवह्योश्चतुः। उ० १।७७। इति वह प्रापणे-चतु। विवाहकाले कन्यायै देयवस्तु (युनक्ति) वियुनक्ति पृथग् बध्नाति। (इति) अनेन प्रकारेण। (भुवनम्) अ० २।१।३। भूतजातम्। लोकः। (वि याति) पृथग् गच्छति। अन्यद् गतम् ॥
इस भाष्य को एडिट करें