अथर्ववेद - काण्ड 4/ सूक्त 17/ मन्त्र 6
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
क्षु॑धामा॒रं तृ॑ष्णामा॒रम॒गोता॑मनप॒त्यता॑म्। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
स्वर सहित पद पाठक्षु॒धा॒ऽमा॒रम् । तृ॒ष्णा॒ऽमा॒रम् । अ॒गोता॑म् । अ॒न॒प॒ऽत्यता॑म् । अपा॑मार्ग: । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ । मृ॒ज्म॒हे॒ ॥१७.६॥
स्वर रहित मन्त्र
क्षुधामारं तृष्णामारमगोतामनपत्यताम्। अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥
स्वर रहित पद पाठक्षुधाऽमारम् । तृष्णाऽमारम् । अगोताम् । अनपऽत्यताम् । अपामार्ग: । त्वया । वयम् । सर्वम् । तत् । अप । मृज्महे ॥१७.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 17; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(क्षुधामारम्) मृञ्-घञ्। क्षुत्पीडया मरणम् (तृष्णामारम्) पिपासया मरणम् (अगोताम्) गवाम् अभावम् (अनपत्यताम्) अपत्यानां राहित्यम् (अपामार्ग) अप+आङ्+मृजू शौचालंकारयोः-घञ्। हे सर्वथा संशोधक। हे अपामार्गौषधवद् उपकारिन् ! अपामार्गपर्य्यायः-अपामार्गः शैखरिको धामार्गावमयूरकौ-इत्यमरः, १४।८८। अस्य गणाः। कफार्शः कण्डूदरामयविसषरोगनाशित्वम्-इति शब्दकल्पद्रुमः (त्वया) राज्ञा (वयम्) प्रजागणाः (सर्वम्) (तत्) एतत् [अपमृज्महे] अपमार्जयामः शोधयामः विनाशयामः-इत्यर्थः ॥
इस भाष्य को एडिट करें