Loading...
अथर्ववेद > काण्ड 4 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 1
    सूक्त - मृगारः देवता - द्यावापृथिवी छन्दः - पुरोऽष्टिर्जगती सूक्तम् - पापमोचन सूक्त

    म॒न्वे वां॑ द्यावापृथिवी सुभोजसौ॒ सचे॑तसौ॒ ये अप्र॑थेथा॒ममि॑ता॒ योज॑नानि। प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ ते नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    म॒न्वे । वा॒म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽभो॒ज॒सौ॒ । सऽचे॑तसौ । ये इति॑ । अप्र॑थेथाम् । अमि॑ता । योज॑नानि ।प्र॒ति॒स्थे इति॑ प्र॒ति॒ऽस्थे । हि । अभ॑वतम् । वसू॑नाम । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.१॥


    स्वर रहित मन्त्र

    मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि। प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    मन्वे । वाम् । द्यावापृथिवी इति । सुऽभोजसौ । सऽचेतसौ । ये इति । अप्रथेथाम् । अमिता । योजनानि ।प्रतिस्थे इति प्रतिऽस्थे । हि । अभवतम् । वसूनाम । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 1

    टिप्पणीः - १−(मन्वे) मननं करोमि (वाम्) युवयोः (द्यावापृथिवी) हे द्यावापृथिव्यौ ! हे सूर्यभूलोकौ ! (सुभोजसौ) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति भुज पालनाभ्यवहारयोः-असुन्। शोभनपालयित्र्यौ। सुष्ठु भोजयित्र्यौ (सचेतसौ) अ० १।३०।२। समानचेतयित्र्यौ (ये) द्यावापृथिव्यौ (अप्रथेथाम्) प्रथ प्रख्याने-लङ्। प्रख्यातवत्यौ। प्रसिद्धीकृतवत्यौ (अमिता) माङ् माने शब्दे च-क्त। अमितानि। अपरिमितानि बहूनि (योजनानि) युजिर्-योगे-ल्युट्। संयोजनानि। संयोगकर्माणि (प्रतिष्ठे) आतश्चोपसर्गे। पा० ३।३।१०६। इति प्रति+ष्ठा गतिनिवृत्तौ-अधिकरणेऽङ्। आधारभूते (हि) अवश्यम् (अभवतम्) (वसूनाम्) निवासहेतूनां धनानाम्-निघ० २।१०। (ते) तथाभूते युवाम् (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥

    इस भाष्य को एडिट करें
    Top