Loading...
अथर्ववेद > काण्ड 4 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 5
    सूक्त - मृगारः देवता - द्यावापृथिवी छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ये इति॑ । उ॒स्रिया॑: । बि॒भृ॒थ: । ये इति॑ । वन॒स्पती॑न् । ययो॑: । वा॒म् । विश्वा॑ । भुव॑नानि । अ॒न्त: । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.५॥


    स्वर रहित मन्त्र

    ये उस्रिया बिभृथो ये वनस्पतीन्ययोर्वां विश्वा भुवनान्यन्तः। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ये इति । उस्रिया: । बिभृथ: । ये इति । वनस्पतीन् । ययो: । वाम् । विश्वा । भुवनानि । अन्त: । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 5

    टिप्पणीः - ५−(ये) युवाम् (उस्रियाः) स्फायितञ्चिवञ्चि०। उ० २।१३। इति वस निवासे-रक्, सम्प्रसारणं च। वसति क्षीरादिहविरस्याम्-इति उस्रा। ततः पृषोदरादित्वात्स्वार्थे घ। उस्रियेति गोनामोत्स्राविणोऽस्यां भोगाः। उस्रेति च, निरु० ४।१९। गाः (बिभृथः) धारयथः (वनस्पतीन्) अ० १।१२।३। वनानां सेवकानां पालकान्। वृक्षान् (ययोः) (वाम्) युवयोः (विश्वा) विश्वानि सर्वाणि (भुवनानि) अ० २।१।३। लोकान्। (अन्तः) मध्ये। अन्यत् पूर्ववत्-म० २ ॥

    इस भाष्य को एडिट करें
    Top