Loading...
अथर्ववेद > काण्ड 4 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 2
    सूक्त - मृगारोऽअथर्वा वा देवता - भवाशर्वौ रुद्रो वा छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ययो॑रभ्य॒ध्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ययो॑: । अ॒भि॒ऽअ॒ध्वे । उ॒त । यत् । दू॒रे । चि॒त् । यौ । वि॒दि॒तौ । इ॒षु॒ऽभृता॑म् । असि॑ष्ठौ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स:॥२८.२॥


    स्वर रहित मन्त्र

    ययोरभ्यध्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ययो: । अभिऽअध्वे । उत । यत् । दूरे । चित् । यौ । विदितौ । इषुऽभृताम् । असिष्ठौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस:॥२८.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 2

    टिप्पणीः - २−(ययोः) भवाशर्वयोः (अभ्यध्वे) अभि अध्वनः अभ्यध्वः। उपसर्गादध्वनः। पा० ५।४।८५। इति अच् समासान्तः। समीपदेशे (उत) अपि (यत् चित्) यत्किञ्चित् (दूरे) दूरदेशे (यौ) भवाशर्वौ (विदितौ) प्रज्ञातौ (इषुभृताम्) ईष हिंसायाम्-कु, ह्रस्वश्च। डुभृञ् धारणपोषणयोः-क्विप्-तुक् च। हिंसाधारकाणाम् (असिष्ठौ) तुश्छन्दसि। पा० ५।३।५९। इति असितृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः। असितृतमौ। क्षेप्तृतमौ। अन्यत् पूर्ववत्-म० १ ॥

    इस भाष्य को एडिट करें
    Top