अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 3
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
स॑हस्रा॒क्षौ वृ॑त्र॒हणा॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒क्षौ । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । अ॒हम् । दू॒रेग॑व्यूती॒ इति॑ दू॒रेऽग॑व्यूती । स्तु॒वन् । ए॒मि॒ ।उ॒ग्रौ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.३॥
स्वर रहित मन्त्र
सहस्राक्षौ वृत्रहणा हुवेहं दूरेगव्यूती स्तुवन्नेम्युग्रौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठसहस्रऽअक्षौ । वृत्रऽहना । हुवे । अहम् । दूरेगव्यूती इति दूरेऽगव्यूती । स्तुवन् । एमि ।उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सहस्राक्षौ) अ० ४।२०।४। बहुव्यवहारव्यापकौ। यद्वा। सर्वतोदत्तदृष्टी स्थूलसूक्ष्मविषयेष्वपि प्राप्तदर्शनौ। (वृत्रहणा) अ० १।२१।१। शत्रुनाशकौ। अन्धकारनिवारकौ (हुवे) आह्वयामि (अहम्) मनुष्यः (दूरेगव्यूती) दूरे+गो+यूती। दुरीणो लोपश्च। उ० २।२०। इति दुर्+इण् गतौ-रक् धातुलोपश्च। इति दूरं विप्रकृष्टम्। गमेर्डोः। उ० २।६७। इति गम्लृ गतौ-डो प्रत्ययः। ऊतियूतिजूति०। पा० ३।३।९७। इति यु मिश्रणामिश्रणयोः-क्तिन्। निपातनात् साधुः। गोर्यूतौ छन्दसि। वा० पा० ६।१।७९। इति अव् आदेशः। रश्मयो गाव उच्यन्ते-निरु० २।६। दूरे दूरदेशे गवां रश्मीनां प्रकाशानां यूतिः संयोगो ययोस्तौ। सर्वलोकप्रकाशकौ-इत्यर्थः (स्तुवन्) प्रशंसन् सन् (एमि) प्राप्नोमि (उग्रौ) तीक्ष्णस्वभावौ। अन्यत् पूर्ववत् म० १ ॥
इस भाष्य को एडिट करें