अथर्ववेद - काण्ड 4/ सूक्त 33/ मन्त्र 3
प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑। अप॑ नः॒ शोशु॑चद॒घम् ॥
स्वर सहित पद पाठप्र । यत् । भन्दि॑ष्ठ: । ए॒षा॒म् । प्र । अ॒स्माका॑स: । च॒ । सू॒रय॑: । अप॑ । न॒: । शोशु॑चत् । अ॒घम् ॥३३.३॥
स्वर रहित मन्त्र
प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः। अप नः शोशुचदघम् ॥
स्वर रहित पद पाठप्र । यत् । भन्दिष्ठ: । एषाम् । प्र । अस्माकास: । च । सूरय: । अप । न: । शोशुचत् । अघम् ॥३३.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 33; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(प्र) प्रकर्षेण भवानि (यत्) यथा (भन्दिष्ठः) भदि कल्याणे सुखे स्तुतौ च-तृच्, इष्ठन्। तुरिष्ठेमेयःसु। पा० ६।४।१५४। इति तृ लोपः। भन्दना भन्दतेः स्तुतिकर्मणः-निरु० ५।२। स्तोतृतमः सुखितमः (एषाम्) मनुष्यादिप्राणिनां मध्ये (प्र) प्रकर्षेण भवन्तु (अस्माकासः) तस्येदम्। पा० ४।३।१२०। इति अस्मद्-अण्। तस्मिन्नणि च युष्माकास्माकौ। पा० ४।३।२। इति अस्माकादेशः। अणि वृद्ध्यभावश्छान्दसः। असुगागमश्च। आस्माकः। अस्मदीयाः (च) (सूरयः) अ० २।११।४। विद्वांसः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें