अथर्ववेद - काण्ड 4/ सूक्त 33/ मन्त्र 4
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम्। अप॑ नः॒ शोशु॑चद॒घम् ॥
स्वर सहित पद पाठप्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रय॑: । जाये॑महि । प्र । ते॒ । व॒यम् । अप॑ । न॒: । शोशु॑चत् । अ॒घम् ॥३३.४॥
स्वर रहित मन्त्र
प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम्। अप नः शोशुचदघम् ॥
स्वर रहित पद पाठप्र । यत् । ते । अग्ने । सूरय: । जायेमहि । प्र । ते । वयम् । अप । न: । शोशुचत् । अघम् ॥३३.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 33; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(प्र) इत्यस्य, जायेमहि, इति क्रियया सह सम्बन्धः। प्रजायन्ते प्रजाः सन्ति (यत्) यस्य (ते) तव (अग्ने) परमात्मन् (सूरयः) विद्वांसः (प्र जायेमहि) प्रजा भवेम (ते) तस्य तव (वयम्) उपासकाः। अन्यद्गतम् ॥
इस भाष्य को एडिट करें