अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 4
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - अमृता सूक्त
प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्। क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ॥
स्वर सहित पद पाठप्र । यत् । ए॒ते । प्रऽत॒रम् । पू॒र्व्यम् । गु: । सद॑:ऽसद: । आ॒ऽतिष्ठ॑न्त: । अ॒जु॒र्यम् । क॒वि: । शु॒षस्य॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । जा॒म्यै । धुर्य॑म् । पति॑म् । आ । ई॒र॒ये॒था॒म् ॥१.४॥
स्वर रहित मन्त्र
प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम्। कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥
स्वर रहित पद पाठप्र । यत् । एते । प्रऽतरम् । पूर्व्यम् । गु: । सद:ऽसद: । आऽतिष्ठन्त: । अजुर्यम् । कवि: । शुषस्य । मातरा । रिहाणे इति । जाम्यै । धुर्यम् । पतिम् । आ । ईरयेथाम् ॥१.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(प्र) प्रकर्षेण (यत्) यस्मात्कारणात् (एते) शुचयः स्वाः−म० ३। (प्रतरम्) प्रकृष्टतरम् (पूर्व्यम्) अ० ४।१।६। पूर्व-यत्। पूर्वाय समस्ताय जगते हितं परमात्मानम् (गुः) अगुः। प्रापुः (सदःसदः) सदसां सदनीयानां सदः सदनीयम्। प्राप्तव्यानां मध्ये प्राप्तव्यं मोक्षपदम्। (आतिष्ठन्तः) आरुहन्तः (अजुर्यम्) अघ्न्यादयश्च। उ० ४।११२। इति जूरी हिंसावयोहान्योः−यक्। नञ्सुभ्याम्। पा० ६।२।१७२। इति उत्तरपदस्यान्तोदात्तत्वं बहुव्रीहौ। अजरं दृढं सर्वकार्यशक्तम् (कविः) सुपां सुलुक्० पा० ७।१।३९। इति षष्ठ्याः सुः। कवेः मेधाविनः (शुषस्य) शुष शोषणे−क। शुष्णम्, शुष्मम्−बलनाम−निघ० २।९। बलवतः पुरुषस्य (मातरा) मातरौ मातृवदुपकारिके द्यावापृथिव्यौ (रिहाणे) रिह कत्थने−शानच्। रेहति, अर्चति-कर्मा−निघ० ३।१४। अर्चन्त्यौ। स्तुवाने (जाम्यै) अ० १।४।१। भगिनीवत्सहायभूतायै प्रजायै (धुर्यम्) धुरं वहतीति। धुरो यड्ढकौ। पा० ४।४।७७। इति धुर्−यत्। धुरन्धरम्। श्रेष्ठम् (पतिम्) पालकं परमात्मानम्। मोक्षपदं वा (आ ईरयेथाम्) अवगमयतं युवाम् ॥
इस भाष्य को एडिट करें