अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 9
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्र्यवसाना षट्पदात्यष्टिः
सूक्तम् - अमृता सूक्त
अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर। अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्। क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥
स्वर सहित पद पाठअ॒र्धम् । अ॒र्धेन॑ । पय॑सा । पृ॒ण॒क्षि॒ । अ॒र्धेन॑ । शु॒ष्म॒ । व॒र्ध॒से॒ । अ॒मु॒र॒ । अवि॑म् । वृ॒धा॒म॒ । श॒ग्मिय॑म् ।सखा॑यम् । वरु॑णम् । पु॒त्रम् । अदि॑त्या: । इ॒षि॒रन् । क॒वि॒ऽश॒स्तानि॑ । अ॒स्मै॒ । वपूं॑षि । अ॒वो॒चा॒म॒ । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाचा॑ ॥१.९॥
स्वर रहित मन्त्र
अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर। अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम्। कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥
स्वर रहित पद पाठअर्धम् । अर्धेन । पयसा । पृणक्षि । अर्धेन । शुष्म । वर्धसे । अमुर । अविम् । वृधाम । शग्मियम् ।सखायम् । वरुणम् । पुत्रम् । अदित्या: । इषिरन् । कविऽशस्तानि । अस्मै । वपूंषि । अवोचाम । रोदसी इति । सत्यऽवाचा ॥१.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अर्धम्) ऋधु वृद्धौ−घञ्। अर्धो हरतेर्विपरीताद्धारयतेर्वा स्यादुद्धृतं भवत्यृध्नोतेर्वा स्यादृद्धतमो विभागः−निरु० ३।२०। प्रवृद्धं संसारम् (अर्धेन) प्रवृद्धेन (पयसा) पय गतौ−असुन्। स्वगमनेन स्वव्याप्त्या (पृणक्षि) पृची सम्पर्चने। संयोजयसि (अर्धेन) प्रवृद्धेन व्यापकत्वेन (शुष्म) अ० १।१२।३। शुष्मम्=बलम्−निघ० २।३। ततोऽच्। हे बलवन् (वर्धसे) प्रवृद्धो भवसि (अमुर) मुर संवेष्टने−क। हे अवेष्टित। हे अहिंसित (अविम्) ३।१७।३। रक्षकम् (वृधाम) वर्धयाम प्रशंसाम। (शग्मियम्) युजिरुचितिजां कुश्च। उ० १।१४६। इति शकेर्मक्, कस्य गः। शग्मं सुखम्−निरु० ३।६। ततो घः। सुखवन्तम् (सखायम्) मित्रम् (वरुणम्) वरणीयम् (पुत्रम्) अ० १।११।५। शोधकम् (अदित्याः) अ० २।२८।४। अखण्डायाः प्रकृतेः (इषिरम्) इषिमदिमुदि०। उ० १।५१। इति इषु इच्छायाम्−किरच्। यद्वा ईष गतौ, दर्शने च−किरच्। ह्रस्वश्च। इषिरेण ईषणेन वैषणेन वार्षणेन वा−निरु० ४।७। गमयितारम्। दर्शकं परमात्मानाम् (कविशस्तानि) मेधाविभिः स्तुतानि (अस्मै) परमेश्वराय (वपूंषि) रूपाणि, स्वभावान् (अवोचाम) वच वा ब्रूञ्−लुङ्। वयमुक्तवन्तः (रोदसी) अ० ४।१।४। भूतानां रोधनशीले द्यावापृथिव्यौ (सत्यवाचा) सत्यवाचौ सत्यकथनशीले स्तः ॥
इस भाष्य को एडिट करें