अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 1
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ य॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः। स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ॥
स्वर सहित पद पाठतत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यत॑: । ज॒ज्ञे । उ॒ग्र: । त्वे॒षऽनृ॑म्ण: । स॒द्य: । ज॒ज्ञा॒न: । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यत् । ए॒न॒म् । मद॑न्ति । विश्वे॑ । ऊमा॑: ॥२.१॥
स्वर रहित मन्त्र
तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यदेनं मदन्ति विश्व ऊमाः ॥
स्वर रहित पद पाठतत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यत: । जज्ञे । उग्र: । त्वेषऽनृम्ण: । सद्य: । जज्ञान: । नि । रिणाति । शत्रून् । अनु । यत् । एनम् । मदन्ति । विश्वे । ऊमा: ॥२.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(तत्) विस्तृतं ब्रह्म (इत्) एव (आस) अस गतिदीप्त्यादानेषु लिट्। दिदीपे (भुवनेषु) सत्सु लोकेषु (ज्येष्ठम्) प्रशस्ततमम्। वृद्धतमम् (यतः) यस्माद् ब्रह्मणः (जज्ञे) प्रादुर्बभूव (उग्रः) प्रचण्डः। तेजस्वी (त्वेषनृम्णः) त्विष दीप्तौ−घञ्। नृम्णं बलनाम−निघ० २।९। धननाम−निघ० २।१०। नृम्णं बलं नॄन् नतम्−निरु० ११।९। नृनमनशब्दस्य वर्णलोपादौ नृम्णमिति रूपम्। त्वेषः कान्तिर्नृम्णं बलं धनं वा यस्य सः। तेजोबलः। तेजोधनः पुरुषः (सद्यः) शीघ्रम् (जज्ञानः) जनेर्लिटः कानच्। जातः सन् (नि) नितराम् (रिणाति) रि गतिरेषणयोः। हिनस्ति (शत्रून्) शातयितॄन्। विघ्नान् (अनु) अनुसृत्य। पश्चात् (यत्) यस्मात्कारणात् (एनम्) परमात्मानम् (मदन्ति) हृष्यन्ति (विश्वे) सर्वे (ऊमाः) अविसिविसिशुषिभ्यः कित्। उ० १।१४४। इति अव रक्षणे−मन्। ज्वरत्वरस्रिव्यवि। पा० ६।४।२०। इति ऊठ्। रक्षादिकर्मकर्तारः पुरुषाः ॥
इस भाष्य को एडिट करें