अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 7
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
स्तु॒ष्व व॑र्ष्मन्पुरु॒वर्त्मा॑नं॒ समृभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म्। आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पृथि॒व्याः ॥
स्वर सहित पद पाठस्तु॒ष्व । व॒र्ष्म॒न् । पु॒रु॒ऽवर्त्मा॑नम् । सम् । ऋभ्वा॑णम् । इ॒नऽत॑मम् । आ॒प्तम् । आ॒प्त्याना॑म् ।आ । द॒र्श॒ति॒ । शव॑सा । भूरि॑ऽओजा: । प्र । स॒क्ष॒ति॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्या: ॥२.७॥
स्वर रहित मन्त्र
स्तुष्व वर्ष्मन्पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम्। आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥
स्वर रहित पद पाठस्तुष्व । वर्ष्मन् । पुरुऽवर्त्मानम् । सम् । ऋभ्वाणम् । इनऽतमम् । आप्तम् । आप्त्यानाम् ।आ । दर्शति । शवसा । भूरिऽओजा: । प्र । सक्षति । प्रतिऽमानम् । पृथिव्या: ॥२.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(स्तुष्व) प्रशंस (वर्ष्मन्) अ० ३।४।२। वृष प्रजननैश्ययोः−मनिन्। हे ऐश्वर्य्यवन् मनुष्य (पुरुवर्त्मानम्) बहुमार्गवन्तम् (सम्) सम्यक् (ऋभ्वाणम्) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति उरु+भा दीप्तौ यद्वा भू सत्तायाम्−वनिप्, स च डित्। उरुशब्दस्य ऋकारः। ऋभव उरु भान्तीति वा, ऋतेन भान्तीति वा, ऋतेन भवन्तीति वा−निरु० ११।१५। उरु−भासनम्। उरुभूतम् (इनतमम्) अतिशयेनेश्वरं (आप्तम्) आप्लृ−क्त। यथार्थवक्तारम् (आप्त्यानाम्) आप्त−यत्। आप्तेषु यथार्थज्ञातृषु भवानां गुणानाम् (आ) समन्तात् (दर्शति) पश्यति (शवसा) बलेन (भूर्योजाः) महाबलः (प्र) प्रकर्षेण (सक्षति) षच समवाये−लेटि सिप्। गतिकर्मा−निघ० २।१४। सक्षतिराप्नोतिकर्मा−निरु० ११।२१। व्याप्नोति (प्रतिमानम्) माङ् माने−ल्युट्। प्रतिरूपं सत् (पृथिव्याः) भूमेः ॥
इस भाष्य को एडिट करें