अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 3
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑। स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
स्वर सहित पद पाठत्वे इति॑ । क्रतु॑म् । अपि॑ । पृ॒ञ्च॒न्ति॒ । भूरि॑ । द्वि: । यत् । ए॒ते । त्रि: । भव॑न्ति । ऊमा॑: । स्वा॒दो: । स्वादी॑य: । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒द: । सु । मधु॑। मधु॑ना । अ॒भि । यो॒धी॒: ॥२.३॥
स्वर रहित मन्त्र
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः। स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
स्वर रहित पद पाठत्वे इति । क्रतुम् । अपि । पृञ्चन्ति । भूरि । द्वि: । यत् । एते । त्रि: । भवन्ति । ऊमा: । स्वादो: । स्वादीय: । स्वादुना । सृज । सम् । अद: । सु । मधु। मधुना । अभि । योधी: ॥२.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्वे) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः शे आदेशः। त्वयि (क्रतुम्) प्रज्ञाम्−निघ० ३।९। (अपि) एव (पृञ्चन्ति) पृची सम्पर्के। संयोजयन्ति सर्वे प्राणिनः (भूरि) बहुप्रकारेण (द्विः) द्वित्रिचतुर्भ्यः सुच्। पा० ५।४।१८। इति सुच्। द्विवारं स्त्रीरूपेण पुंरूपेण च (यत्) यस्मात्। (एते) दृश्यमानाः (त्रिः) त्रि−सुच्। त्रिवारं स्थाननामजन्मरूपेण। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरु० ९।२८। (भवन्ति) वर्तन्ते (ऊमाः) म० १। रक्षकाः (स्वादोः) स्वादुनः। प्रियात् (स्वादीयः) स्वादु−ईयसुन्। स्वादुतरम्। प्रियतरं मोक्षसुखम् (स्वादुना) प्रियेण सांसारिकसुखेन (सम् सृज) संयोजय (अदः) तत् (सु) सुष्ठु (मधु) मधुरं मोक्षसुखम् (मधुना) मधुरेण सांसारिकज्ञानेन (अभि) अभितः (योधीः) युध्यति गतिकर्मा−निघ० २।१४। छान्दसं लुङि रूपम्। अयोत्सीः। त्वं गमितवान् प्रापितवानसि ॥
इस भाष्य को एडिट करें