Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 8
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः। म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ॥

    स्वर सहित पद पाठ

    इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑व: । कृ॒ण॒व॒त् । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒य: । स्व॒:ऽसा: । म॒ह: । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजा॑ । तुर॑: । चि॒त् । विश्व॑म् । अ॒र्ण॒व॒त् । तप॑स्वान् ॥२.८॥


    स्वर रहित मन्त्र

    इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः। महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥

    स्वर रहित पद पाठ

    इमा । ब्रह्म । बृहत्ऽदिव: । कृणवत् । इन्द्राय । शूषम् । अग्रिय: । स्व:ऽसा: । मह: । गोत्रस्य । क्षयति । स्वऽराजा । तुर: । चित् । विश्वम् । अर्णवत् । तपस्वान् ॥२.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 8

    टिप्पणीः - ८−(इमा) इमानि (ब्रह्म) ब्रह्माणि बृहन्ति स्तोत्राणि (बृहद्दिवः) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति बृहत्+दिवु क्रीडाविजिगीषाव्यवहारस्तुतिगत्यादिषु−क। बृहद्व्यवहारवान्। महागतिमान् पुरुषः (कृणवत्) कृवि हिंसाकरणयोः−लेट्। कुर्यात् (इन्द्राय) परमेश्वराय (शूषम्) बलनाम−निघ० २।९। स्वबलम् (अग्रियः) घच्छौ च। पा० ४।४।११७। इति अग्र−घ। अग्रे भवः। श्रेष्ठः (स्वर्षाः) जनसनखनक्रम०। पा० ३।२।६७। इति षण सम्भक्तौ दाने च−विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। सनोतेरनः। पा–० ८।३।१०८। इति षत्वम्। स्वर्गस्य सम्भक्ता सेवनकर्ता (महः) महतः (गोत्रस्य) गो+त्रैङ् रक्षणे−क। गोः पृथिव्या रक्षकस्य पुरुषस्य (क्षयति) क्षि ऐश्ये। ईष्टे (स्वराजा) स्वतन्त्रः स्वामी (तुरः) शीघ्रस्वभावः (चित्) एव (विश्वम्) सर्वं जगत् (अर्णवत्) ऋण गतौ−लडर्थे लेट्। अर्णोति। व्याप्नोति (तपस्वान्) ऐश्वर्यवान् ॥

    इस भाष्य को एडिट करें
    Top