Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 9
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - भुरिक्परातिजागता त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥

    स्वर सहित पद पाठ

    ए॒व । म॒हान् । बृ॒हत्ऽदि॑व: । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व᳡म् । इन्द्र॑म् । ए॒व । स्वसा॑रौ । मा॒त॒रिभ्व॑री॒ इति॑ । अ॒रि॒प्रे इति॑ । हि॒न्वन्ति॑ । च॒ । ए॒ने॒ इति॑ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥२.९॥


    स्वर रहित मन्त्र

    एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव। स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥

    स्वर रहित पद पाठ

    एव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥२.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 9

    टिप्पणीः - ९−(एव) एवम् (महान्) गुणैरधिकः (बृहद्दिवः) म० ८। बृहद्व्यवहारवान् (अथर्वा) अ० ४।१।७। निश्चलो मनुष्यः (अवोचत्) वचेर्लुङ्। प्रोक्तवान् (स्वाम्) आत्मीयाम् (तन्वम्) विस्तृतां स्तुतिम्, इति सायणः−ऋ० १०।१२०।९। (इन्द्रम्) परमेश्वरं प्रति (एव) निश्चयेन (स्वसारौ) स्वसा सु असा स्वेषु सीदतीति वा−निरु० ११।३२। सावसेर्ऋन्। उ० २।९६। इति सु+असु क्षेपणे, यद्वा अस दीप्तौ, ग्रहणे, गतौ, सत्तायां च−ऋन्। सुष्ठु ग्रहणशीले गतिशीले वा यद्वा भगिन्यौ यथा सह दृश्यमाने। अहोरात्रौ (मातरिभ्वरी) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति मातरि+भू सत्तायाम्−वनिप्, स च डित्। वनो र च। पा० ४।१।७। इति ङीब्रेफौ। वा छन्दसि। पा० ६।१।१०६। इति जसि पूर्वसवर्णदीर्घः। मातर्यन्तरिक्षे [निरु० ७।२६] वर्तमाने (अरिप्रे) रप व्यक्तायां वाचि−रक्। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। निर्दोषे (हिन्वन्ति) हिवि प्रीणने। प्रीणयन्ति तर्पयन्ति (च) समुच्चये (एने) दृश्यमाने द्यावापृथिव्यौ (शवसा) स्वसामर्थ्येन (वर्धयन्ति) स्तुवन्ति (च) समुच्चये ॥

    इस भाष्य को एडिट करें
    Top