अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 4
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति विप्राः। ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ॥
स्वर सहित पद पाठयदि॑ । चि॒त् । नु। त्वा॒ । धना॑ । जय॑न्तम् । रणे॑ऽरणे । अ॒नु॒ऽमद॑न्ति । विप्रा॑: । ओजी॑य: । शु॒ष्मि॒न् । स्थि॒रम् । आ ।त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । दु॒:ऽएवा॑स: । क॒शोका॑: ॥२.४॥
स्वर रहित मन्त्र
यदि चिन्नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः। ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन्दुरेवासः कशोकाः ॥
स्वर रहित पद पाठयदि । चित् । नु। त्वा । धना । जयन्तम् । रणेऽरणे । अनुऽमदन्ति । विप्रा: । ओजीय: । शुष्मिन् । स्थिरम् । आ ।तनुष्व । मा । त्वा । दभन् । दु:ऽएवास: । कशोका: ॥२.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यदि) सम्भावनायाम् (चित्) एव (नु) क्षिप्रम् (त्वा) त्वाम् (धना) धनानि (जयन्तम्) जयेन प्राप्नुवन्तम् (रणेरणे) सर्वस्मिन् युद्धे (अनुमदन्ति) अनुसृत्य हृष्यन्ति (विप्राः) मेधाविनः (ओजीयः) ओजस्वि−ईयसुन्। विन्मतोर्लुक्। पा० ५।३।६५। इति विनो लुक्, टिलोपः। बलवत्तरम् (शुष्मिन्) हे बलवन् (स्थिरम् निश्चलं मोक्षसुखम् (आ) समन्तात् (तनुष्व) विस्तारय (मा दभन्) मा हिंसन्तु (त्वा) त्वाम् (दुरेवासः) इण्शीभ्यां वन्। उ० १।१५२। इति दुर्+इण् गतौ−वन्, असुक्। दुर्गतयः पुरुषाः (कशोकाः) कं सुखम्−निघ० ३।६। के परसुखे शोकः खेदो येषां ते ॥
इस भाष्य को एडिट करें