Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 6
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    नि तद्द॑धि॒षेऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे। आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ॥

    स्वर सहित पद पाठ

    नि । तत् । द॒धि॒षे॒ । अव॑रे । परे॑ । च॒ । यस्मि॑न् । आवि॑थ । अव॑सा । दु॒रो॒णे । आ । स्था॒प॒य॒त॒ । मा॒तर॑म् । जि॒ग॒त्नुम् ।अत॑: । इ॒न्व॒त॒ । कर्व॑राणि । भूरि॑॥२.६॥


    स्वर रहित मन्त्र

    नि तद्दधिषेऽवरे परे च यस्मिन्नाविथावसा दुरोणे। आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥

    स्वर रहित पद पाठ

    नि । तत् । दधिषे । अवरे । परे । च । यस्मिन् । आविथ । अवसा । दुरोणे । आ । स्थापयत । मातरम् । जिगत्नुम् ।अत: । इन्वत । कर्वराणि । भूरि॥२.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 6

    टिप्पणीः - ६−(नि) निश्चयेन (तत्) दुरोणम् (दधिषे) डुधाञ् धारणपोषणयोः−लिट्। पोषितवानसि (अवरे) अल्पे जने (परे) उत्कृष्टे (च) (यस्मिन्) (आविथ) अवतेर्लिट्। त्वं रक्षितवानसि (अवसा) अवः=अन्नम्−निघ० २।७। तर्पकेणान्नेन (दुरोणे) रास्नासास्ना०। उ० ३।१५। इति दुःपूर्वादवतेर्नकि रुटि गुणः। दुरोण इति गृहनाम दुःखा भवन्ति दुस्तर्पाः−निरु० ४।५। दुस्तर्पे गृहे (आ) समन्तात् (स्थापयत) धारयत हृदये हे जनाः (मातरम्) निर्मात्रीं शक्तिम्। परमात्मानम् (जिगत्नुम्) गमेः सन्वच्च। उ० ३।३१। इति गम्लृ−गतौ−क्त्नु। गतिशीलां व्यापिकाम् (अतः) अस्मात्कारणात् (इन्वत) इवि व्याप्तौ। व्याप्नुत। साधयत (कर्वराणि) कॄगॄशॄवॄञ्चतिभ्यः ष्वरच्। उ० २।१२१। इति डुकृञ् करणे−ष्वरच्। कर्माणि−निघ० २।१। (भूरि) भूरीणि ॥

    इस भाष्य को एडिट करें
    Top