अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 1
सूक्त - बृहद्दिवोऽथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
स्वर सहित पद पाठमम॑ । अ॒ग्ने॒ । वर्च॑: । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑न: । त॒न्व᳡म् । पु॒षे॒म॒ ।मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑:।चत॑स्र:। त्वया॑ । अधि॑ऽअक्षेण । पृत॑ना: । ज॒ये॒म॒ ॥३.१॥
स्वर रहित मन्त्र
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम। मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
स्वर रहित पद पाठमम । अग्ने । वर्च: । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धान: । तन्वम् । पुषेम ।मह्यम् । नमन्ताम् । प्रऽदिश:।चतस्र:। त्वया । अधिऽअक्षेण । पृतना: । जयेम ॥३.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(मम) (अग्ने) हे सर्वव्यापक परमात्मन् (वर्चः) प्रकाशः (विहवेषु) ह्वः सम्प्रसारणं च न्यभ्युपविषु। पा० ३।३।७२। इति वि+ह्वेञ् आह्वाने−अप्। शूराणामाह्वानस्थानेषु संग्रामेषु (अस्तु) (वयम्) (त्वा) त्वाम् (इन्धानाः) इन्धेः−शानच्। दीपयन्तः (तन्वम्) स्वशरीरम् (पुषेम) पोषयेम (मह्यम्) मदर्थम् (नमन्ताम्) प्रह्वीभवन्तु (प्रदिशः) प्रकृष्टा दिशाः। तद्वासिनो जना इत्यर्थः (चतस्रः) (त्वया) (अध्यक्षेण) अधि+अक्षू व्याप्तौ−अच्। ईश्वरेण (पृतनाः) संग्रामान्−निघ०−२।१७। (जयेम) अभिभवेम ॥
इस भाष्य को एडिट करें