Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 9
    सूक्त - बृहद्दिवोऽथर्वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः। आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥

    स्वर सहित पद पाठ

    धा॒ता । वि॒ऽधा॒ता । भुव॑नस्य । य: । पति॑: । दे॒व: । स॒वि॒ता । अ॒भि॒मा॒ति॒ऽस॒ह:। आ॒दि॒त्या: । रु॒द्रा: । अ॒श्विना॑ । उ॒भा । दे॒वा: । पा॒न्तु॒ । यज॑मानम् । नि॒:ऽऋ॒थात् ॥३.९॥


    स्वर रहित मन्त्र

    धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः। आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात् ॥

    स्वर रहित पद पाठ

    धाता । विऽधाता । भुवनस्य । य: । पति: । देव: । सविता । अभिमातिऽसह:। आदित्या: । रुद्रा: । अश्विना । उभा । देवा: । पान्तु । यजमानम् । नि:ऽऋथात् ॥३.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 9

    टिप्पणीः - ९−(धाता) धर्ता (विधाता) स्रष्टा (भुवनस्य) संसारस्य (यः) (पतिः) पालयिता (देवः) प्रकाशमानः (सविता) प्रेरयिता (अभिमातिसहः) अ० ४।३२।४। अभिमातीनां अभिमानिनां पराजेता (आदित्याः) अ० १।९।१। आङ्+दीपी दीप्तौ−यक्। प्रकाशमानाः। (रुद्राः) अ० २।२७।६। दुःखनाशकाः पुरुषाः (अश्विना) अ० २।२९।६। अश्विनौ। द्यावापृथिव्यौ (उभा) उभौ (देवाः) दिव्यपदार्थाः (पान्तु) रक्षन्तु (यजमानम्) यज्ञकर्तारम् (निर्ऋथात्) अर्तेर्निरि। उ० २।८। इति निर्+ऋ हिंसायाम्−थक्। परिहिंसनात्। विनाशात् ॥

    इस भाष्य को एडिट करें
    Top