Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 2
    सूक्त - बृहद्दिवोऽथर्वा देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑। अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥

    स्वर सहित पद पाठ

    अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । त्वम् । न॒: । गो॒पा: । परि॑ । पा॒हि॒ । वि॒श्वत॑: ।अपा॑ञ्च: । य॒न्तु॒ । नि॒ऽवता॑ । दू॒र॒स्यव॑: । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥३.२॥


    स्वर रहित मन्त्र

    अग्ने मन्युं प्रतिनुदन्परेषां त्वं नो गोपाः परि पाहि विश्वतः। अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् ॥

    स्वर रहित पद पाठ

    अग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । त्वम् । न: । गोपा: । परि । पाहि । विश्वत: ।अपाञ्च: । यन्तु । निऽवता । दूरस्यव: । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥३.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 2

    टिप्पणीः - २−(अग्ने) हे सर्वव्यापक परमात्मन् (मन्युम्) क्रोधम् (प्रतिनुदन्) प्रतिमुखं प्रेरयन् (परेषाम्) शत्रूणाम् (त्वम्) (नः) अस्मान् (गोपाः) गुपू रक्षणे−आयप्रत्ययान्तात्−क्विप्। वेरपृक्तलोपात्पूर्वं वति लोपे रूपमेतत्। गोपायिता रक्षकः (परि) सर्वतः (पाहि) रक्ष (विश्वतः) सर्वप्रकारेण (अपाञ्चः) अपगच्छन्तः। निवर्तमानाः (यन्तु) गच्छन्तु (निवता) निम्नदेशेन (दुरस्यवः) दुरस्युर्द्रविणस्युर्वृषण्यति०। पा० ७।४।३६। इति क्यचि दुष्टशब्दस्य दुरस् भावः। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। अनिष्टं चिकीर्षवः (अमा) गृहे−निघ० ३।४। (एषाम्) शत्रूणाम् (चित्तम्) ज्ञानसाधनं मनः (प्रबुधाम्) प्रबोद्धृणाम् (वि) विशेषेण (नेशत्) णश अदर्शने। नश्येत् ॥

    इस भाष्य को एडिट करें
    Top