अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 7
सूक्त - बृहद्दिवोऽथर्वा
देवता - सोमः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यच्छत प्र॒जायै॑ नस्त॒न्वे॒ यच्च॑ पु॒ष्टम्। मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
स्वर सहित पद पाठतिस्र॑: । दे॒वी॒: । महि॑ । न॒: । शर्म॑ । य॒च्छ॒त॒ । प्र॒ऽजायै॑ । न॒: । त॒न्वे᳡ । यत् । च॒ । पु॒ष्टम् । मा । हा॒स्म॒हि॒ । प्र॒ऽजया॑ । मा । त॒नूभि॑: । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥३.७॥
स्वर रहित मन्त्र
तिस्रो देवीर्महि नः शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम्। मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥
स्वर रहित पद पाठतिस्र: । देवी: । महि । न: । शर्म । यच्छत । प्रऽजायै । न: । तन्वे । यत् । च । पुष्टम् । मा । हास्महि । प्रऽजया । मा । तनूभि: । मा । रधाम । द्विषते । सोम । राजन् ॥३.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(तिस्रः) त्रिसंख्याकाः (देवीः) देव्यः। हे कमनीयाः शक्तयः, इडासरस्वतीभारत्यः−य० २७।१९। (महि) महत् (नः) अस्मभ्यम् (शर्म) शरणम्। सुखम्−निघ० ३।६। (यच्छत) दत्त (प्रजायै) प्रजाहिताय (नः) अस्माकम् (तन्वे) शरीराय (यत्) किंचित् (च) समुच्चये (पुष्टम्) पोषणम् (मा हास्महि) ओहाक् त्यागे कर्मणि लुङ्। वयं मा परित्यजेमहि (प्रजया) सन्तानादिना (मा) निषेधे (तनूभिः) स्वशरीरैः (मा रधाम) रध हिंसासंराद्ध्योः−माङि लुङि रूपम्। हिंसिता मा भूम (द्विषते) द्विष−शतृ। अप्रीतिं कुर्वते (सोम) हे ऐश्वर्यवन् (राजन्) स्वामिन् परमात्मन् ॥
इस भाष्य को एडिट करें