Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 4
    सूक्त - बृहद्दिवोऽथर्वा देवता - देवगणः छन्दः - त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु। एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ॥

    स्वर सहित पद पाठ

    मह्य॑म् । य॒ज॒न्ता॒म् । मम॑ । यानि॑ । इ॒ष्टा । आऽकू॑ति: । स॒त्या । मन॑स: । मे॒ । अ॒स्तु॒। एन॑: । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा: । अ॒भि । र॒क्ष॒न्तु॒ । मा॒ । इ॒ह ॥३.४॥


    स्वर रहित मन्त्र

    मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु। एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥

    स्वर रहित पद पाठ

    मह्यम् । यजन्ताम् । मम । यानि । इष्टा । आऽकूति: । सत्या । मनस: । मे । अस्तु। एन: । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवा: । अभि । रक्षन्तु । मा । इह ॥३.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 4

    टिप्पणीः - ४−(मह्यम्) मदर्थम् (यजन्ताम्) संगच्छन्ताम् (मम) (यानि) या गतौ−ड। प्राप्तव्यानि (इष्टा) इष्टानि कर्माणि (आकूतिः) संकल्पः। मनोरथः (सत्या) यथार्था (मनसः) अन्तःकरणस्य (मे) मम (अस्तु) (एनः) अ० २।१०।८। पापम् (मा गाम्) एतेर्माङि लुङि रूपम्। मा गच्छेयम् (नि) नितराम् (कतमत् चन) किमपि (अहम्) उपासकः (विश्वे) सर्वे (देवाः) उत्तमगुणाः (अभि) सर्वतः (रक्षन्तु) पालयन्तु (मा) माम् (इह) अस्मिन् मनोरथे ॥

    इस भाष्य को एडिट करें
    Top