अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 8
सूक्त - बृहद्दिवोऽथर्वा
देवता - सोमः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यच्छत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु। स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
स्वर सहित पद पाठउ॒रु॒ऽव्यचा॑: । न॒: । म॒हि॒ष: । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒त: पु॒रु॒ऽक्षु । स: ।न॒:। प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ड॒ । इन्द्र॑ । मा । न॒: । रि॒रि॒ष॒:। मा । परा॑ । दा॒: ॥३.८॥
स्वर रहित मन्त्र
उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन्हवे पुरुहूतः पुरुक्षु। स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥
स्वर रहित पद पाठउरुऽव्यचा: । न: । महिष: । शर्म । यच्छतु । अस्मिन् । हवे । पुरुऽहूत: पुरुऽक्षु । स: ।न:। प्रऽजायै । हरिऽअश्व । मृड । इन्द्र । मा । न: । रिरिष:। मा । परा । दा: ॥३.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(उरुव्यचाः) अञ्चु गतौ−असुन्। विस्तीर्णव्यापनः (नः) अस्मभ्यम् (महिषः) अ० २।३५।४। पूजनीयः। महान् (शर्म) गृहम्−निघ० ३।४। (यच्छतु) ददातु (अस्मिन्) (हवे) आह्वाने (पुरुहूतः) बहुप्रकारेणाहूतः (पुरुक्षु) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति टुक्षु शब्दे, यद्वा क्षि निवासगत्योः−कु, स च डित्। क्षु=अन्नम्−निघ० २।७। बह्वन्नयुक्तम् (सः) सः त्वम् (नः) अस्माकम् (प्रजायै) प्रजाहिताय (हर्यश्व) हृपिषिरुहि० उ० ४।११९। इति हृञ् हरणे−इन्। हरणं प्रापणं स्वीकारः स्तेयं नाशनं च। अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तौ−क्वन्। हरी इन्द्रस्य निघ० २।१५। [उपयोजनानि साहचर्यज्ञानस्य−निरु० २।२८] हे हरिभ्यामाकर्षणविकर्षणाभ्यां व्यापनशील (मृड) सुखी भव (इन्द्र) परमेश्वर (नः) अस्मान् (मा रीरिषः) रिष हिंसायां लुङि छान्दसं रूपम्। मा हिंसीः (मा परा दाः) डुदाञ् दाने−लुङ्। परादानं परित्यागः। मा परित्याक्षीः ॥
इस भाष्य को एडिट करें