Loading...
अथर्ववेद > काण्ड 5 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 6
    सूक्त - अथर्वा देवता - मरुद्गणः छन्दः - अतिशक्वरी सूक्तम् - ब्रह्मकर्म सूक्त

    म॒रुतः॒ पर्व॑ताना॒मधि॑पतय॒स्ते मा॑वन्तु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    म॒रुत॑: । पर्व॑तानाम् । अधि॑ऽपतय: । ते । मा॒ । अ॒व॒न्तु। अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.६॥


    स्वर रहित मन्त्र

    मरुतः पर्वतानामधिपतयस्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

    स्वर रहित पद पाठ

    मरुत: । पर्वतानाम् । अधिऽपतय: । ते । मा । अवन्तु। अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 6

    टिप्पणीः - ६−(मरुतः) अ० १।२०।१। ऋत्विजः−निघ० ३।१८। याजकाः (पर्वतानाम्) शैलानाम्। तत्रस्थौषधीनाम् (अधिपतयः) अधिष्ठातारः (ते) (मा) (अवन्तु) रक्षन्तु ॥

    इस भाष्य को एडिट करें
    Top