अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भाधान सूक्त
गर्भं॑ ते मि॒त्रावरु॑णौ॒ गर्भं॑ दे॒वो बृह॒स्पतिः॑। गर्भं॑ त॒ इन्द्र॑श्चा॒ग्निश्च॒ गर्भं॑ धा॒ता द॑धातु ते ॥
स्वर सहित पद पाठगर्भ॑म् । ते॒ । मि॒त्रावरु॑णौ । गर्भ॑म् । दे॒व: । बृह॒स्पति॑: । गर्भ॑म् । ते॒ । इन्द्र॑:। च॒ । अ॒ग्नि: । च॒ । गर्भ॑म् । धा॒ता । द॒धा॒तु॒ । ते॒ ॥२५.४॥
स्वर रहित मन्त्र
गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः। गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥
स्वर रहित पद पाठगर्भम् । ते । मित्रावरुणौ । गर्भम् । देव: । बृहस्पति: । गर्भम् । ते । इन्द्र:। च । अग्नि: । च । गर्भम् । धाता । दधातु । ते ॥२५.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(गर्भम्) गर्भशिशुम् (ते) तव (मित्रावरुणौ) प्राणापानौ [आधत्ताम्] इति शेषः−म० ३। (गर्भम्) (देवः) प्रकाशमानः (बृहस्पतिः) बृहतां लोकानां रक्षकः सूर्यः (ते) (इन्द्रः) विद्युत् (च) समुच्चये (अग्निः) जाठराग्निः (च) अवधारणे (धाता) पोषकः (दधातु) पुष्णातु (ते) तव ॥
इस भाष्य को एडिट करें