अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भाधान सूक्त
वि जि॑हीष्व बार्हत्सामे॒ गर्भ॑स्ते॒ योनि॒मा श॑याम्। अदु॑ष्टे दे॒वाः पु॒त्रं सो॑म॒पा उ॑भया॒विन॑म् ॥
स्वर सहित पद पाठवि । जि॒ही॒ष्व॒ । बा॒र्ह॒त्ऽसा॒मे॒ । गर्भ॑:। ते॒ । योनि॑म् । आ । श॒या॒म् । अदु॑: । ते॒ । दे॒वा: । पु॒त्रम् । सो॒म॒ऽपा: । उ॒भ॒या॒विन॑म् ॥२५.९॥
स्वर रहित मन्त्र
वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम्। अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥
स्वर रहित पद पाठवि । जिहीष्व । बार्हत्ऽसामे । गर्भ:। ते । योनिम् । आ । शयाम् । अदु: । ते । देवा: । पुत्रम् । सोमऽपा: । उभयाविनम् ॥२५.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(वि) विशेषण (जिहीष्व) ओहाङ् गतौ−लोट्। गच्छ। उद्योगं कुरु (बार्हत्सामे) नामन्सीमन्०। उ० ४।१५१। इति बृहत्+साम सान्त्वने−मनिन्, मलोपः। तदधीते तद्वेद। पा० ४।२।५९। इति बृहत्सामन्−अण्। अजाद्यतष्टाप्। पा० ४।१।४। इति टाप्। बृहत् साम सान्त्वनं प्रियकरणं सामवेदं वा जानाति या सा बार्हत्सामा। तत्सम्बुद्धौ (गर्भः) सन्तानजनकं सामर्थ्यम् (ते) तत्र (योनिम्) गर्भाशयम् (आशयाम्) तलोपः। आशेताम्। प्राप्नोतु (अदुः) दत्तवन्तः (ते) तुभ्यम् (देवाः) दिव्यगुणाः (पुत्रम्) अ० १।११।५। कुलशोधकं सन्तानम् (सोमपाः) अमृतपानशीलाः (उभयाविनम्) उभय−आविनम्। सुप्यजातौ णिनिस्ताच्छील्ये पा० ३।२।७८। इति उभय+अव रक्षणे−णिनि। उभयोर्मातापित्रो रक्षकम् ॥
इस भाष्य को एडिट करें