Loading...
अथर्ववेद > काण्ड 5 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - अश्विनीकुमारः, बृहस्पतिः छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक् सूक्तम् - नवशाला सूक्त

    अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ। बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    अश्वि॑ना । ब्रह्म॑णा । आ । या॒त॒म् । अ॒र्वाञ्चौ॑ । व॒ष॒ट्ऽका॒रेण॑ । य॒ज्ञम् । व॒र्धय॑न्तौ । बृह॑स्पते । ब्रह्म॑णा । आ । या॒हि॒ । अ॒वाङ् । य॒ज्ञ: । अ॒यम् । स्व᳡: । इ॒दम् । यज॑मानाय । स्वाहा॑ ॥२६.१२॥


    स्वर रहित मन्त्र

    अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ। बृहस्पते ब्रह्मणा याह्यर्वाङ् यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥

    स्वर रहित पद पाठ

    अश्विना । ब्रह्मणा । आ । यातम् । अर्वाञ्चौ । वषट्ऽकारेण । यज्ञम् । वर्धयन्तौ । बृहस्पते । ब्रह्मणा । आ । याहि । अवाङ् । यज्ञ: । अयम् । स्व: । इदम् । यजमानाय । स्वाहा ॥२६.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 12

    टिप्पणीः - १२−(अश्विना) अ० २।२९।६। अश्वो व्याप्तिः−इनि। अश्वी च अश्विनी च। पुमान् स्त्रिया। पा० १।२।६७। इत्येकशेषः। कार्येषु व्याप्तिशीलौ स्त्रीपुरुषौ (ब्रह्मणा) वेदज्ञानेन (आ यातम्) आ गच्छतम् (अर्वाञ्चौ) अ० म० ३।२।३। अस्मदभिमुखौ (वषट्कारेण) अ० १।११।१। वह प्रापणे−उषटि। दानकर्मणा (वर्धयन्तौ) समर्धयन्तौ सन्तौ (बृहस्पते) बृहतां लोकानां रक्षक जगदीश्वर (ब्रह्मणा) अस्माकं वृद्धिसाधनेन सह (आ याहि) आ गच्छ। साक्षाद् भव (अर्वाङ्) अ० ३।२।३। अभिमुखः सन् (यज्ञः) संगमः। समाजः (अयम्) दृश्यमानः (स्वः) सुखम् (इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये−कमिन्। ऐश्वर्यकरम् (यजमानाय) संगतिशीलाय (स्वाहा) सुवाणी भवतु ॥

    इस भाष्य को एडिट करें
    Top