Loading...
अथर्ववेद > काण्ड 5 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - निविदः छन्दः - द्विपदा प्राजापत्या बृहती सूक्तम् - नवशाला सूक्त

    प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः ॥

    स्वर सहित पद पाठ

    प्र॒ऽए॒षा: । य॒ज्ञे । नि॒ऽविद॑: । स्वाहा॑ । शि॒ष्टा: । पत्नी॑भि: । व॒ह॒त॒ । इ॒ह । यु॒क्ता: ॥२६.४॥


    स्वर रहित मन्त्र

    प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥

    स्वर रहित पद पाठ

    प्रऽएषा: । यज्ञे । निऽविद: । स्वाहा । शिष्टा: । पत्नीभि: । वहत । इह । युक्ता: ॥२६.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 4

    टिप्पणीः - ४−(प्रैषाः) प्र+इष गतौ−घञ्, टाप्। प्रादूहोढोढ्येषैष्येषु। वा० पा० ६।१।८९। इति वृद्धिः। प्रेषणीयाः (निविदः) सत्सूद्विषद्रुहदुह०। पा० ३।२।६१। इति नि+विद ज्ञाने−क्विप्। निवित्, वाङ्नाम−निघ० १।११। निश्चितविद्याः (शिष्टाः) शासु अनुशिष्टौ−क्त। हे सुबोधाः पुरुषाः (पत्नीभिः) पालनशक्तिभिः (वहत) नयत (युक्ताः) उपेताः सन्तः ॥

    इस भाष्य को एडिट करें
    Top