Loading...
अथर्ववेद > काण्ड 6 > सूक्त 111

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 2
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - उन्मत्ततामोचन सूक्त

    अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्। कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तोऽस॑सि ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । ते॒ । नि । श॒म॒य॒तु॒ । यदि॑ । ते॒ ।मन॑: । उत्ऽयु॑तम् । कृ॒णोमि॑। व‍ि॒द्वान् । भे॒ष॒जम् । यथा॑ । अनु॑त्ऽमदित: । अस॑सि ॥१११.२॥


    स्वर रहित मन्त्र

    अग्निष्टे नि शमयतु यदि ते मन उद्युतम्। कृणोमि विद्वान्भेषजं यथानुन्मदितोऽससि ॥

    स्वर रहित पद पाठ

    अग्नि: । ते । नि । शमयतु । यदि । ते ।मन: । उत्ऽयुतम् । कृणोमि। व‍िद्वान् । भेषजम् । यथा । अनुत्ऽमदित: । अससि ॥१११.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 2

    टिप्पणीः - २−(अग्निः) विद्वान् पुरुषः (ते) तव (मनः) (नि शमयतु) नितरां शान्तं करोतु (यदि) सम्भावनायाम् (ते मनः) (उद्युतम्) युञ् बन्धने−क्त। उद्विग्नम् (कृणोमि) करोमि (विद्वान्) विज्ञोऽहम् (भेषजम्) औषधम् (यथा) येन प्रकारेण (अनुन्मदितः) चित्तभ्रमरहितः (अससि) भूयाः ॥

    इस भाष्य को एडिट करें
    Top