Loading...
अथर्ववेद > काण्ड 6 > सूक्त 111

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 3
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - उन्मत्ततामोचन सूक्त

    दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑। कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तोऽस॑ति ॥

    स्वर सहित पद पाठ

    दे॒व॒ऽए॒न॒सात् । उत्ऽम॑दितम् । उत्ऽम॑त्तम् । रक्ष॑स: । परि॑ । कृ॒णो॒मि॑ । वि॒द्वान् । भे॒ष॒जम् । य॒दा । अनु॑त्ऽमदित: । अस॑ति ॥१११.३॥


    स्वर रहित मन्त्र

    देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि। कृणोमि विद्वान्भेषजं यदानुन्मदितोऽसति ॥

    स्वर रहित पद पाठ

    देवऽएनसात् । उत्ऽमदितम् । उत्ऽमत्तम् । रक्षस: । परि । कृणोमि । विद्वान् । भेषजम् । यदा । अनुत्ऽमदित: । असति ॥१११.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 3

    टिप्पणीः - ३−(देवैनसात्) अनसन्तान्नपुंसकाच्छन्दसि। पा० ५।४।१०३। इति टच्, समासान्तः। देवेभ्यः कृतात् पापात् (उन्मदितम्) भ्रमितचितं−पुरुषम् (उन्मत्तम्) उन्मादविशिष्टम् (रक्षसः) राक्षसात्। दुःखदायिनो जीवाद् रोगाद् वा (परि) प्रति। प्राप्य (यदा) थस्य दः। यथा (असति) भवेत् ॥

    इस भाष्य को एडिट करें
    Top