Loading...
अथर्ववेद > काण्ड 6 > सूक्त 116

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 3
    सूक्त - जाटिकायन देवता - विवस्वान् छन्दः - जगती सूक्तम् - मधुमदन्न सूक्त

    यदी॒दं मा॒तुर्यदि॑ पि॒तुर्नः॒ परि॒ भ्रातुः॑ पु॒त्राच्चेत॑स॒ एन॒ आग॑न्। याव॑न्तो अ॒स्मान्पि॒तरः॒ सच॑न्ते॒ तेषां॒ सर्वे॑षां शि॒वो अ॑स्तु म॒न्युः ॥

    स्वर सहित पद पाठ

    यदि॑। इ॒दम् । मा॒तु: । यदि॑ । वा॒ । पि॒तु: । न॒: । परि॑ । भ्रातु॑: । पु॒त्रात् । चेत॑स: । एन॑: । आ॒ऽअग॑न् । याव॑न्त: । अ॒स्मान् । पि॒तर॑: । सच॑न्ते । तेषा॑म् । सर्वे॑षाम् । शि॒व: । अ॒स्तु॒ । म॒न्यु: ॥११६.३॥


    स्वर रहित मन्त्र

    यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन्। यावन्तो अस्मान्पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥

    स्वर रहित पद पाठ

    यदि। इदम् । मातु: । यदि । वा । पितु: । न: । परि । भ्रातु: । पुत्रात् । चेतस: । एन: । आऽअगन् । यावन्त: । अस्मान् । पितर: । सचन्ते । तेषाम् । सर्वेषाम् । शिव: । अस्तु । मन्यु: ॥११६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 3

    टिप्पणीः - ३−(यदि) इदम् (मातुः) म० २। मातरं प्राप्य (यदि वा) (पितुः) पितरं प्राप्य (भ्रातुः) भ्रातरं प्राप्य (नः) अस्माकम् (चेतसः) चित्तात् (परि) सर्वतः (एनः) पापम् (आगन्)−म० २। आगमत् (यावन्तः) यत्परिमाणाः (अस्मान्) (पितरः) पितृवद् मान्याः (सचन्ते) समवयन्ति। संगच्छन्ते (तेषाम् सर्वेषाम्) (शिवः) शान्तः (अस्तु) (मन्युः) क्रोधः ॥

    इस भाष्य को एडिट करें
    Top