Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 1
यद्या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑। वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म् ॥
स्वर सहित पद पाठयत् । या॒मम् । य॒क्रु: । नि॒ऽखन॑न्त: । अग्रे॑ । कार्षी॑वणा: । अ॒न्न॒ऽविद॑: । न । वि॒द्यया॑ । वै॒व॒स्व॒ते । राज॑नि । तत् । जु॒हो॒मि॒ । अथ॑ । य॒ज्ञिय॑म् । मधु॑ऽमत् । अ॒स्तु॒ । न:॒। अन्न॑म् ॥११६.१॥
स्वर रहित मन्त्र
यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया। वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥
स्वर रहित पद पाठयत् । यामम् । यक्रु: । निऽखनन्त: । अग्रे । कार्षीवणा: । अन्नऽविद: । न । विद्यया । वैवस्वते । राजनि । तत् । जुहोमि । अथ । यज्ञियम् । मधुऽमत् । अस्तु । न:। अन्नम् ॥११६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यत्) (यामम्) तस्य समूहः। पा० ४।२।३७। इति यम−अण्। नियमानां समूहम् (चक्रुः) कृतवन्तः (निखनन्तः) भूमिं कर्षन्तः (अग्रे) पुरा (कार्षीवणाः) कृषि−ङीप्, कृष्या वनं सेवनं कृषीवणं, तदस्ति येषाम्। तस्येदम्। पा० ४।३।१२०। इत्यण्। कृषिसेविनः। कर्षकाः (अन्नविदः) अन्नप्रापकाः (न) उपमायाम्−निघ० ३।१३। (विद्यया) ज्ञानेन (वैवस्वते) तस्येदम्। पा० ४।३।१२०। इति विवस्वत−अण्। विवस्वन्तो मनुष्याः−निघ० २।३। विवस्वत आदित्याद् विवस्वान् विवासनवान्−निरु० ७।२६। विवस्वतां मनुष्याणां स्वामिनि (राजनि) शासके परमात्मनि (तत्) तथाविधं यामम् (जुहोमि) समर्पयामि (अथ) अनन्तरम् (यज्ञियम्) यज्ञार्हम् (मधुमत्) ज्ञानयुक्तम् (अस्तु) (नः) अस्माकम् (अन्नम्) जीवनसाधनम् ॥
इस भाष्य को एडिट करें